Advertisment1

यह एक धर्मिक और राष्ट्रवादी पत्रिका है जो पाठको के आपसी सहयोग के द्वारा प्रकाशित किया जाता है अपना सहयोग हमारे इस खाते में जमा करने का कष्ट करें | आप का छोटा सहयोग भी हमारे लिए लाखों के बराबर होगा |

श्रीसूर्यसहस्रनामावली

श्रीसूर्यसहस्रनामावली

लेखक आनंद हठिला
ध्यानम्
〰️〰️
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

ॐ विश्वविदे नमः । विश्वजिते । विश्वकर्त्रे । विश्वात्मने । विश्वतोमुखाय । विश्वेश्वराय । विश्वयोनये । नियतात्मने । जितेन्द्रियाय । कालाश्रयाय । कालकर्त्रे । कालघ्ने । कालनाशनाय । महायोगिने । महासिद्धये । महात्मने । सुमहाबलाय । प्रभवे । विभवे । भूतनाथाय नमः । २०

ॐ भूतात्मने नमः । भुवनेश्वराय । भूतभव्याय । भावितात्मने । भूतान्तःकरणाय । शिवाय । शरण्याय । कमलानन्दाय । नन्दनाय । नन्दवर्धनाय । वरेण्याय । वरदाय । योगिने । सुसंयुक्ताय । प्रकाशकाय । प्राप्तयानाय । परप्राणाय । पूतात्मने । प्रयताय । प्रियाय नमः । ४०

ॐ नयाय नमः । सहस्रपादे । साधवे । दिव्यकुण्डलमण्डिताय । अव्यङ्गधारिणे । धीरात्मने । सवित्रे । वायुवाहनाय । समाहितमतये । दात्रे । विधात्रे । कृतमङ्गलाय । कपर्दिने । कल्पपादे । रुद्राय । सुमनाय । धर्मवत्सलाय । समायुक्ताय । विमुक्तात्मने । कृतात्मने नमः । ६०

ॐ कृतिनां वराय नमः । अविचिन्त्यवपवे । श्रेष्ठाय । महायोगिने । महेश्वराय । कान्ताय । कामारये । आदित्याय । नियतात्मने । निराकुलाय । कामाय । कारुणिकाय । कर्त्रे । कमलाकरबोधनाय । सप्तसप्तये । अचिन्त्यात्मने । महाकारुणिकोत्तमाय । सञ्जीवनाय । जीवनाथाय । जयाय नमः । ८०

ॐ जीवाय नमः । जगत्पतये । अयुक्ताय । विश्वनिलयाय । संविभागिने । वृषध्वजाय । वृषाकपये । कल्पकर्त्रे । कल्पान्तकरणाय । रवये । एकचक्ररथाय । मौनिने । सुरथाय । रथिनां वराय । सक्रोधनाय । रश्मिमालिने । तेजोराशये । विभावसवे । दिव्यकृते । दिनकृते नमः । १००

ॐ देवाय नमः । देवदेवाय । दिवस्पतये । दीननाथाय । हराय । होत्रे । दिव्यबाहवे । दिवाकराय । यज्ञाय । यज्ञपतये । पूष्णे । स्वर्णरेतसे । परावराय । परापरज्ञाय । तरणये । अंशुमालिने । मनोहराय । प्राज्ञाय । प्राज्ञपतये । सूर्याय नमः । १२०

ॐ सवित्रे नमः । विष्णवे । अंशुमते । सदागतये । गन्धवहाय । विहिताय । विधये । आशुगाय । पतङ्गाय । पतगाय । स्थाणवे । विहङ्गाय । विहगाय । वराय । हर्यश्वाय । हरिताश्वाय । हरिदश्वाय । जगत्प्रियाय । त्र्यम्बकाय । सर्वदमनाय नमः । १४०

ॐ भावितात्मने नमः । भिषग्वराय । आलोककृते । लोकनाथाय । लोकालोकनमस्कृताय । कालाय । कल्पान्तकाय । वह्नये । तपनाय । संप्रतापनाय । विरोचनाय । विरूपाक्षाय । सहस्राक्षाय । पुरन्दराय । सहस्ररश्मये । मिहिराय । विविधाम्बरभूषणाय । खगाय । प्रतर्दनाय । धन्याय नमः । १६०

ॐ हयगाय नमः । वाग्विशारदाय । श्रीमते ।
अशिशिराय । वाग्मिने । श्रीपतये । श्रीनिकेतनाय । श्रीकण्ठाय । श्रीधराय । श्रीमते । श्रीनिवासाय । वसुप्रदाय । कामचारिणे । महामायाय । महोग्राय । अविदितामयाय । तीर्थक्रियावते । सुनयाय । विभक्ताय । भक्तवत्सलाय नमः । १८०

ॐ कीर्तये नमः । कीर्तिकराय । नित्याय । कुण्डलिने । कवचिने । रथिने । हिरण्यरेतसे । सप्ताश्वाय । प्रयतात्मने । परन्तपाय । बुद्धिमते । अमरश्रेष्ठाय । रोचिष्णवे । पाकशासनाय । समुद्राय । धनदाय । धात्रे । मान्धात्रे । कश्मलापहाय । तमोघ्नाय नमः । २००

ॐ ध्वान्तघ्ने नमः । वह्नये । होत्रे । अन्तःकरणाय । गुहाय । पशुमते । प्रयतानन्दाय । भूतेशाय । श्रीमतां वराय । नित्याय । अदिताय । नित्यरथाय । सुरेशाय । सुरपूजिताय । अजिताय । विजिताय । जेत्रे । जङ्गमस्थावरात्मकाय । जीवानन्दाय । नित्यगामिने नमः । २२०

ॐ विजेत्रे नमः । विजयप्रदाय । पर्जन्याय । अग्नये । स्थितये । स्थेयाय । स्थविराय । निरञ्जनाय । प्रद्योतनाय । रथारूढाय । सर्वलोकप्रकाशकाय । ध्रुवाय । मेषिने । महावीर्याय । हंसाय । संसारतारकाय । सृष्टिकर्त्रे । क्रियाहेतवे । मार्तण्डाय । मरुतां पतये नमः । २४०

ॐ मरुत्वते नमः । दहनाय । त्वष्ट्रे । भगाय । भर्गाय । अर्यम्णे । कपये । वरुणेशाय । जगन्नाथाय । कृतकृत्याय । सुलोचनाय । विवस्वते । भानुमते । कार्याय । कारणाय । तेजसां निधये । असङ्गगामिने । तिग्मांशवे । धर्मांशवे । दीप्तदीधितये नमः । २६०

ॐ सहस्रदीधितये नमः । ब्रध्नाय । सहस्रांशवे । दिवाकराय । गभस्तिमते । दीधितिमते । स्रग्विणे । मणिकुलद्युतये । भास्कराय । सुरकार्यज्ञाय । सर्वज्ञाय । तीक्ष्णदीधितये । सुरज्येष्ठाय । सुरपतये । बहुज्ञाय । वचसां पतये । तेजोनिधये । बृहत्तेजसे । बृहत्कीर्तये । बृहस्पतये नमः । २८०

ॐ अहिमते नमः । ऊर्जिताय । धीमते । आमुक्ताय । कीर्तिवर्धनाय । महावैद्याय । गणपतये । धनेशाय । गणनायकाय । तीव्रप्रतापनाय । तापिने । तापनाय । विश्वतापनाय । कार्तस्वराय । हृषीकेशाय । पद्मानन्दाय । अतिनन्दिताय । पद्मनाभाय । अमृताहाराय । स्थितिमते नमः । ३००

ॐ केतुमते नमः । नभसे । अनाद्यन्ताय । अच्युताय । विश्वाय । विश्वामित्राय । घृणये । विराजे । आमुक्तकवचाय । वाग्मिने । कञ्चुकिने । विश्वभावनाय । अनिमित्तगतये । श्रेष्ठाय । शरण्याय । सर्वतोमुखाय । विगाहिने । वेणुरसहाय । समायुक्ताय । समाक्रतवे नमः । ३२०

ॐ धर्मकेतवे नमः । धर्मरतये । संहर्त्रे । संयमाय । यमाय । प्रणतार्तिहराय । वायवे । सिद्धकार्याय । जनेश्वराय । नभसे । विगाहनाय । सत्याय । सवित्रे । आत्मने । मनोहराय । हारिणे । हरये । हराय । वायवे । ऋतवे नमः । ३४०

ॐ कालानलद्युतये नमः । सुखसेव्याय । महातेजसे । जगतामेककारणाय । महेन्द्राय । विष्टुताय । स्तोत्राय । स्तुतिहेतवे । प्रभाकराय । सहस्रकराय । आयुष्मते । अरोषाय । सुखदाय । सुखिने । व्याधिघ्ने । सुखदाय । सौख्याय । कल्याणाय । कलतां वराय । आरोग्यकारणाय नमः । ३६०

ॐ सिद्धये नमः । ऋद्धये । वृद्धये । बृहस्पतये । हिरण्यरेतसे । आरोग्याय । विदुषे । ब्रध्नाय । बुधाय । महते । प्राणवते । धृतिमते । घर्माय । घर्मकर्त्रे । रुचिप्रदाय । सर्वप्रियाय । सर्वसहाय । सर्वशत्रुविनाशनाय । प्रांशवे । विद्योतनाय नमः । ३८०

ॐ द्योताय नमः । सहस्रकिरणाय । कृतिने । केयूरिणे । भूषणोद्भासिने । भासिताय । भासनाय । अनलाय । शरण्यार्तिहराय । होत्रे । खद्योताय । खगसत्तमाय । सर्वद्योताय । भवद्योताय । सर्वद्युतिकराय । मताय । कल्याणाय । कल्याणकराय । कल्याय । कल्यकराय नमः । ४००

ॐ कवये नमः । कल्याणकृते । कल्यवपवे । सर्वकल्याणभाजनाय । शान्तिप्रियाय । प्रसन्नात्मने । प्रशान्ताय । प्रशमप्रियाय । उदारकर्मणे । सुनयाय । सुवर्चसे । वर्चसोज्ज्वलाय । वर्चस्विने । वर्चसामीशाय । त्रैलोक्येशाय । वशानुगाय । तेजस्विने । सुयशसे । वर्ष्मिणे । वर्णाध्यक्षाय नमः । ४२०

ॐ बलिप्रियाय नमः । यशस्विने । तेजोनिलयाय । तेजस्विने । प्रकृतिस्थिताय । आकाशगाय । शीघ्रगतये । आशुगाय । गतिमते । खगाय । गोपतये । ग्रहदेवेशाय । गोमते । एकाय । प्रभञ्जनाय । जनित्रे । प्रजनाय । जीवाय । दीपाय । सर्वप्रकाशकाय नमः । ४४०

ॐ सर्वसाक्षिने नमः । योगनित्याय । नभस्वते । असुरान्तकाय । रक्षोघ्नाय । विघ्नशमनाय । किरीटिने । सुमनःप्रियाय । मरीचिमालिने । सुमतये । कृताभिख्यविशेषकाय । शिष्टाचाराय । शुभाकाराय । स्वचाराचारतत्पराय । मन्दाराय । माठराय । वेणवे । क्षुधापाय । क्ष्मापतये । गुरवे नमः । ४६०

ॐ सुविशिष्टाय नमः । विशिष्टात्मने । विधेयाय । ज्ञानशोभनाय । महाश्वेताय । प्रियाय । ज्ञेयाय । सामगाय । मोक्षदायकाय । सर्ववेदप्रगीतात्मने । सर्ववेदलयाय । महते । वेदमूर्तये । चतुर्वेदाय । वेदभृते । वेदपारगाय । क्रियावते । असिताय । जिष्णवे । वरीयांशवे नमः । ४८०

ॐ वरप्रदाय नमः । व्रतचारिणे । व्रतधराय । लोकबन्धवे । अलङ्कृताय । अलङ्काराक्षराय । वेद्याय । विद्यावते । विदिताशयाय । आकाराय । भूषणाय । भूष्याय । भूष्णवे । भुवनपूजिताय । चक्रपाणये । ध्वजधराय । सुरेशाय । लोकवत्सलाय । वाग्मिपतये । महाबाहवे नमः । ५००

ॐ प्रकृतये नमः । विकृतये । गुणाय । अन्धकारापहाय । श्रेष्ठाय । युगावर्ताय । युगादिकृते । अप्रमेयाय । सदायोगिने । निरहङ्काराय । ईश्वराय । शुभप्रदाय । शुभाय । शास्त्रे । शुभकर्मणे । शुभप्रदाय । सत्यवते । श्रुतिमते । उच्चैर्नकाराय । वृद्धिदाय नमः । ५२०

ॐ अनलाय नमः । बलभृते । बलदाय । बन्धवे । मतिमते । बलिनां वराय । अनङ्गाय । नागराजेन्द्राय । पद्मयोनये । गणेश्वराय । संवत्सराय । ऋतवे । नेत्रे । कालचक्रप्रवर्तकाय । पद्मेक्षणाय । पद्मयोनये । प्रभावते । अमराय । प्रभवे । सुमूर्तये नमः । ५४०

ॐ सुमतये नमः । सोमाय । गोविन्दाय । जगदादिजाय । पीतवाससे । कृष्णवाससे । दिग्वाससे । इन्द्रियातिगाय । अतीन्द्रियाय । अनेकरूपाय । स्कन्दाय । परपुरञ्जयाय । शक्तिमते । जलधृगे । भास्वते । मोक्षहेतवे । अयोनिजाय । सर्वदर्शिने । जितादर्शाय । दुःस्वप्नाशुभनाशनाय नमः । ५६०

ॐ माङ्गल्यकर्त्रे नमः । तरणये । वेगवते । कश्मलापहाय । स्पष्टाक्षराय । महामन्त्राय । विशाखाय । यजनप्रियाय । विश्वकर्मणे । महाशक्तये । द्युतये । ईशाय । विहङ्गमाय । विचक्षणाय । दक्षाय । इन्द्राय । प्रत्यूषाय । प्रियदर्शनाय । अखिन्नाय । वेदनिलयाय नमः । ५८०

ॐ वेदविदे नमः । विदिताशयाय । प्रभाकराय । जितरिपवे । सुजनाय । अरुणसारथये । कुनाशिने । सुरताय । स्कन्दाय । महिताय । अभिमताय । गुरवे । ग्रहराजाय । ग्रहपतये । ग्रहनक्षत्रमण्डलाय । भास्कराय । सततानन्दाय । नन्दनाय । नरवाहनाय । मङ्गलाय नमः । ६००

ॐ मङ्गलवते नमः । माङ्गल्याय । मङ्गलावहाय । मङ्गल्यचारुचरिताय । शीर्णाय । सर्वव्रताय । व्रतिने । चतुर्मुखाय । पद्ममालिने । पूतात्मने । प्रणतार्तिघ्ने । अकिञ्चनाय । सतामीशाय । निर्गुणाय । गुणवते । शुचये । सम्पूर्णाय । पुण्डरीकाक्षाय । विधेयाय । योगतत्पराय नमः । ६२०

ॐ सहस्रांशवे नमः । क्रतुमतये । सर्वज्ञाय । सुमतये । सुवाचे । सुवाहनाय । माल्यदाम्ने । कृताहाराय । हरिप्रियाय । ब्रह्मणे । प्रचेतसे । प्रथिताय । प्रयतात्मने । स्थिरात्मकाय । शतविन्दवे । शतमुखाय । गरीयसे । अनलप्रभाय । धीराय । महत्तराय नमः । ६४०

ॐ विप्राय नमः । पुराणपुरुषोत्तमाय । विद्याराजाधिराजाय । विद्यावते । भूतिदाय । स्थिताय । अनिर्देश्यवपवे । श्रीमते । विपाप्मने । बहुमङ्गलाय । स्वःस्थिताय । सुरथाय । स्वर्णाय । मोक्षदाय । बलिकेतनाय । निर्द्वन्द्वाय । द्वन्द्वघ्ने । सर्गाय । सर्वगाय । संप्रकाशकाय नमः । ६६०

ॐ दयालवे नमः । सूक्ष्मधिये । क्षान्तये । क्षेमाक्षेमस्थितिप्रियाय । भूधराय । भूपतये । वक्त्रे । पवित्रात्मने । त्रिलोचनाय । महावराहाय । प्रियकृते । दात्रे । भोक्त्रे । अभयप्रदाय । चक्रवर्तिने । धृतिकराय । सम्पूर्णाय । महेश्वराय । चतुर्वेदधराय । अचिन्त्याय नमः । ६८०

ॐ विनिन्द्याय नमः । विविधाशनाय । विचित्ररथाय । एकाकिने । सप्तसप्तये । परात्पराय । सर्वोदधिस्थितिकराय । स्थितिस्थेयाय । स्थितिप्रियाय । निष्कलाय । पुष्कलाय । विभवे । वसुमते । वासवप्रियाय । पशुमते । वासवस्वामिने । वसुधाम्ने । वसुप्रदाय । बलवते । ज्ञानवते नमः । ७००

ॐ तत्त्वाय नमः । ओंङ्काराय । त्रिषु संस्थिताय । सङ्कल्पयोनये । दिनकृते । भगवते । कारणापहाय । नीलकण्ठाय । धनाध्यक्षाय । चतुर्वेदप्रियंवदाय । वषट्काराय । उद्गात्रे । होत्रे । स्वाहाकाराय । हुताहुतये । जनार्दनाय । जनानन्दाय । नराय । नारायणाय । अम्बुदाय नमः । ७२०

ॐ सन्देहनाशनाय नमः । वायवे । धन्विने । सुरनमस्कृताय । विग्रहिने । विमलाय । विन्दवे । विशोकाय । विमलद्युतये । द्युतिमते । द्योतनाय । विद्युते । विद्यावते । विदिताय । बलिने । घर्मदाय । हिमदाय । हासाय । कृष्णवर्त्मने । सुताजिताय नमः । ७४०

ॐ सावित्रीभाविताय नमः । राज्ञे । विश्वामित्राय । घृणये । विराजे । सप्तार्चिषे । सप्ततुरगाय । सप्तलोकनमस्कृताय । सम्पूर्णाय । जगन्नाथाय । सुमनसे । शोभनप्रियाय । सर्वात्मने । सर्वकृते । सृष्टये । सप्तिमते । सप्तमीप्रियाय । सुमेधसे । मेधिकाय । मेध्याय नमः । ७६०

ॐ मेधाविने नमः । मधुसूदनाय । अङ्गिरःपतये । कालज्ञाय । धूमकेतवे । सुकेतनाय । सुखिने । सुखप्रदाय । सौख्याय । कामिने कान्तये । कान्तिप्रियाय । मुनये । सन्तापनाय । सन्तपनाय । आतपाय । तपसां पतये । उमापतये । सहस्रांशवे । प्रियकारिणे । प्रियङ्कराय नमः । ७८०

ॐ प्रीतये नमः । विमन्यवे । अम्भोत्थाय । खञ्जनाय । जगतां पतये । जगत्पित्रे । प्रीतमनसे । सर्वाय । खर्वाय । गुहाय । अचलाय । सर्वगाय । जगदानन्दाय । जगन्नेत्रे । सुरारिघ्ने । श्रेयसे । श्रेयस्कराय । ज्यायसे । महते । उत्तमाय नमः । ८००

ॐ उद्भवाय नमः । उत्तमाय । मेरुमेयाय । अथाय । धरणाय । धरणीधराय । धराध्यक्षाय । धर्मराजाय । धर्माधर्मप्रवर्तकाय । रथाध्यक्षाय । रथगतये । तरुणाय । तनिताय । अनलाय । उत्तराय । अनुत्तरस्तापिने । अवाक्पतये । अपां पतये । पुण्यसङ्कीर्तनाय । पुण्याय नमः । ८२०

ॐ हेतवे नमः । लोकत्रयाश्रयाय । स्वर्भानवे । विगतानन्दाय । विशिष्टोत्कृष्टकर्मकृते । व्याधिप्रणाशनाय । क्षेमाय । शूराय । सर्वजितां वराय । एकरथाय । रथाधीशाय । शनैश्चरस्य पित्रे । वैवस्वतगुरवे । मृत्यवे । धर्मनित्याय । महाव्रताय । प्रलम्बहारसञ्चारिणे । प्रद्योताय । द्योतितानलाय । सन्तापहृते नमः । ८४०

ॐ परस्मै नमः । मन्त्राय । मन्त्रमूर्तये । महाबलाय । श्रेष्ठात्मने । सुप्रियाय । शम्भवे । मरुतामीश्वरेश्वराय । संसारगतिविच्छेत्त्रे । संसारार्णवतारकाय । सप्तजिह्वाय । सहस्रार्चिषे । रत्नगर्भाय । अपराजिताय । धर्मकेतवे । अमेयात्मने । धर्माधर्मवरप्रदाय । लोकसाक्षिणे । लोकगुरवे । लोकेशाय नमः । ८६०

ॐ चण्डवाहनाय नमः । धर्मयूपाय । यूपवृक्षाय । धनुष्पाणये । धनुर्धराय । पिनाकधृते । महोत्साहाय । महामायाय । महाशनाय । वीराय । शक्तिमतां श्रेष्ठाय । सर्वशस्त्रभृतां वराय । ज्ञानगम्याय । दुराराध्याय । लोहिताङ्गाय । विवर्धनाय । खगाय । अन्धाय । धर्मदाय । नित्याय नमः । ८८०

ॐ धर्मकृते नमः । चित्रविक्रमाय । भगवते । आत्मवते । मन्त्राय । त्र्यक्षराय । नीललोहिताय । एकाय । अनेकाय । त्रयिने । कालाय । सवित्रे । समितिञ्जयाय । शार्ङ्गधन्वने । अनलाय । भीमाय । सर्वप्रहरणायुधाय । सुकर्मणे । परमेष्ठिने । नाकपालिने नमः । ९००

ॐ दिविस्थिताय नमः । वदान्याय । वासुकये । वैद्याय । आत्रेयाय । पराक्रमाय । द्वापराय । परमोदाराय । परमाय । ब्रह्मचर्यवते । उदीच्यवेषाय । मुकुटिने । पद्महस्ताय । हिमांशुभृते । सिताय । प्रसन्नवदनाय । पद्मोदरनिभाननाय । सायं दिवा दिव्यवपुषे । अनिर्देश्याय । महालयाय नमः । ९२०

ॐ महारथाय नमः । महते । ईशाय । शेषाय । सत्त्वरजस्तमसे । धृतातपत्रप्रतिमाय । विमर्षिने । निर्णयाय । स्थिताय । अहिंसकाय । शुद्धमतये । अद्वितीयाय । विवर्धनाय । सर्वदाय । धनदाय । मोक्षाय । विहारिणे । बहुदायकाय । चारुरात्रिहराय । नाथाय नमः । ९४०

ॐ भगवते नमः । सर्वगाय । अव्ययाय । मनोहरवपवे । शुभ्राय । शोभनाय । सुप्रभावनाय । सुप्रभावाय । सुप्रतापाय । सुनेत्राय । दिग्विदिक्पतये । राज्ञीप्रियाय । शब्दकराय । ग्रहेशाय । तिमिरापहाय । सैंहिकेयरिपवे । देवाय । वरदाय । वरनायकाय । चतुर्भुजाय नमः । ९६०

ॐ महायोगिने नमः । योगीश्वरपतये । अनादिरूपाय । अदितिजाय । रत्नकान्तये । प्रभामयाय । जगत्प्रदीपाय । विस्तीर्णाय । महाविस्तीर्णमण्डलाय । एकचक्ररथाय । स्वर्णरथाय । स्वर्णशरीरधृषे । निरालम्बाय । गगनगाय । धर्मकर्मप्रभावकृते । धर्मात्मने । कर्मणां साक्षिणे । प्रत्यक्षाय । परमेश्वराय । मेरुसेविने नमः । ९८०

ॐ सुमेधाविने नमः । मेरुरक्षाकराय । महते । आधारभूताय । रतिमते । धनधान्यकृते । पापसन्तापहर्त्रे । मनोवाञ्छितदायकाय । रोगहर्त्रे । राज्यदायिने । रमणीयगुणाय । अनृणिने । कालत्रयानन्तरूपाय । मुनिवृन्दनमस्कृताय । सन्ध्यारागकराय । सिद्धाय । सन्ध्यावन्दनवन्दिताय । साम्राज्यदाननिरताय । समाराधनतोषवते । भक्तदुःखक्षयकराय नमः । १०००

ॐ भवसागरतारकाय नमः । भयापहर्त्रे । भगवते । अप्रमेयपराक्रमाय । मनुस्वामिने । मनुपतये । मान्याय । मन्वन्तराधिपाय । १००८

फलश्रुतिः
〰️〰️〰️
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्चसि । नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे ॥ १॥ धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् । बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ २॥ यस्त्विदं श‍ृणुयान्नित्यं पठेद्वा प्रयतो नरः । अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ ३॥ नृपाग्नितस्करभयं व्याधितो न भयं भवेत् । विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ ४॥ कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः । जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ ५॥ नाम्नां सहस्रमिदमंशुमतः पठेद्यः प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः । दूरेण तं परिहरन्ति सदैव रोगाः भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥ ६॥

इति श्रीभविष्यपुराणे सप्तमकल्पे । श्रीभगवत्सूर्यस्य सहस्रनामावलिः समाप्ता । श्रीसूर्यसहस्रनामावली ।
〰️〰️🌼〰️〰️🌼〰️〰️🌼〰️〰️🌼〰️〰️
हमारे खबरों को शेयर करना न भूलें| हमारे फेसबुक पेज से जुड़े https://www.facebook.com/divyarashmimag हमारे यूटूब चैनल से अवश्य जुड़ें https://www.youtube.com/divyarashminews हमें ट्विटर पर फॉलो करे :- https://x.com/DivyaRashmi8

एक टिप्पणी भेजें

0 टिप्पणियाँ