Advertisment1

यह एक धर्मिक और राष्ट्रवादी पत्रिका है जो पाठको के आपसी सहयोग के द्वारा प्रकाशित किया जाता है अपना सहयोग हमारे इस खाते में जमा करने का कष्ट करें | आप का छोटा सहयोग भी हमारे लिए लाखों के बराबर होगा |

वन्देsहं गणनायकम्

 

वन्देsहं गणनायकम्

मार्कण्डेय शारदेयः
(पटना, बिहारस्थः) 
अस्माकं देवेषु अनेकेषु एकः गणेशोsपि।वस्तुतः पञ्चभूतात्मके तत्त्वे पञ्च दिव्यानि रूपाणि अपि कल्पितानि।तेषु आकाशस्य प्रतिनिधिः विष्णुः, वायोः सूर्यः, अग्नेः दुर्गा, जलस्य गजाननः, पृथिव्याश्च शिवः-
‘आकाशस्याधिपो विष्णुः अग्नेश्चैव महेश्वरी।
वायोः सूर्यः क्षितेः ईशो जीवनस्य गणाधिपः’।।
तत्त्वं ब्रह्मवाचकम् अपि।अनेन पञ्चतत्त्वानि अपि ब्रह्ममयानि।ब्रह्म एव प्रकृत्याः योगेन विकृतं भूत्वा विश्वं जनयति, एकत्वे सति अनेकत्वं गच्छति।ब्रह्मसकाशात् एव आवायु भूमि-पर्यान्तानि चत्वारि तत्त्वानि नित्यानि अनित्यानि च।केवलम् आकाशम् एव नित्यं मन्यते तत्त्वदर्शिभिः।तथापि पञ्चतत्त्वानां दिव्यतां संस्मृत्य समीक्ष्य वा अस्माकं संस्कृत्यां पञ्चब्रह्मणः अपि विकासः जातः।
अस्तु; विष्णुः, वायुः, अग्निः, वरुणः (जलम्), भूमिः (शिवः) चेति पञ्च दैवतानि सम्प्रदाय-विशिष्टेषु पृथक् स्वतन्त्रं च कृतानि।सम्भवतः पाशिनः स्थाने परवर्तिनि साहित्ये गणेशः प्रतिष्ठितः।अनेन वरुणं विहाय गजमुखस्य गणपतेः जलतत्त्वे स्थानं स्वीकृतम् इति।इत्थं वैष्णवः, सौरः, शाक्तः, गाणपतः शैवश्च पञ्च-सम्प्रदायाः प्रचलिताः।अतः गणेशोsपि सर्वशक्तिमान् मतः।तेन गणपतेः अथर्वशीर्षे कथितम्- ‘त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्तासि।
त्वमेव केवलं धर्तासि।
त्वमेव केवलं हर्तासि।
त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षात् आत्मासि नित्यम्’।
वस्तुतः ब्रह्मविभूत्या एव सर्वे विभूतिमन्तः।येषु येषु अधिकाधिकाः विभूतयः, ते ते सृष्टि-विधायकाः उत्कर्षकाः च।अतः पञ्चदेवतासु गणेशोsपि मुख्यः।अनेन सम्प्रदायानां समन्वित्यां पञ्चदेवतानां पूजा अस्माकं संस्कृत्यां प्रचलिता।एतेषाम् जगद्धिताय अवताराः अपि मताः। एतेषाम् अवताराणाम् आधिक्यात् एव देवाधिक्यम्।एतेषां सम्बद्धाः व्रतोपवासाः उत्सवाश्च अस्माकं गृहे गृहे दृश्यन्ते।चतुर्दश्यां शिवस्य, चतुर्थ्यां गणेशस्य, सप्तम्यां सूर्यस्य, नवम्यां दुर्गायाः, एकादश्यां द्वादश्यां च विष्णोः नाना प्रकारेण आराधनं भवति।विशेषेषु उत्सवेषु रामनवम्यां कृष्ण-जन्माष्टम्यां विष्णोः, महाशिवरात्र्यां शिवस्य, शारदे नवरात्रे दुर्गायाः, अचला-सप्तम्यां सूर्यषष्ट्यां च सूर्यस्य भाद्रपदस्य शुक्लपक्षस्य चतुर्थ्यां गणपतेः च उत्सवाः महोत्सवाः आह्लादकाः भवन्ति।
अस्तु; पक्षद्वयेषु चतुर्थीषु तिथिषु विविधेन नाम्ना गणेशः पूज्यते एव, किन्तु भाद्रपदस्य शुक्लपक्षस्य चतुर्थ्यां महोत्सवोsयं महाराष्ट्रे विशेषेण द्रष्टव्यः।चतुर्थीतः अनन्त-चतुर्दशीं यावत् उत्साहपूर्णं वातावरणं तत्र दरीदृश्यते।यथा बङ्गेषु आश्विने दुर्गोत्सवः, तथैव तत्र गणेशोत्सवः। परतन्त्रे भारते धार्मिक-भावनया जनयोजने राष्ट्रहिते प्रेरणे च अनयोः उत्सवयोः विशेषं योगदानम्।
अस्माकं कर्मकाण्डे कस्मिंश्चित् अपि यजनारम्भे गणपतेः पूजया एव शुभारम्भः भवति।कथ्यते अयं विघ्नहर्ता।य़ज्ञे प्रत्यूहानाम् उपस्थितिः न स्यात्, निर्विघ्नम् अनुष्ठानस्य समाप्तिः स्यात् इति विचार्य आचार्य-सम्मतम् आचार-सम्मतं च अस्य पूजायाः प्राथम्यम्।वस्तुतः गणेशस्य पर्यायेषु विघ्नराजः, विघ्नहर्ता, विघ्नेश्वरः, विघ्ननायकः, विघ्ननाशनः अपि।यः विघ्नहारी, सः कथं विघ्नकारी भवेत्? अतः ज्ञायते यत् यः अस्य पूजनं न करोति, तस्य कार्यम् अयं विहन्ति।यः प्रथमं पूजयति, तस्य कृते अयं विघ्नहर्ता।अनेन सङ्कल्पे ‘निर्विघ्नता- सिद्धये आदौ गणपति-पूजनम् अहं करिष्ये’ उच्यते।
अस्तु; नाना पुराणेषु गणेशस्य जन्मकथा नाना प्रकारेण उद्घाटिताः।तेषु ब्रह्मवैवर्त- पुराणस्य अनुसारेण सः कृष्णस्य कृपात्मकः, प्रतिरूपश्च।अतः अयोनिजोsयम्।यथा महिषमर्दिन्याः दुर्गायाः अवतारे देवादिभिः नाना उपहाराः समर्पिताः, तथैव अस्मिन् पुराणेsपि दृश्यते गौरी-नन्दनाय।पूर्वं जन्मावसरे विष्णोः आशीर्दानम्-
‘शिवेन तुल्यं ज्ञानं ते परमायुश्च बालक।
पराक्रमे मया तुल्यः सर्वसिद्धीश्वरो भव’।।(गणपतिखण्डम्-10.21)
विधातुः वरदानम्-
‘यशसा ते जगत्पूर्णं सर्वपूज्यो भवाचिरम्।
सर्वेषां पुरतः पूजां भवत्वतिसुदुर्लभा’।।(तत्रैव 10.22)
महादेवस्य वरम्-
‘दाता भव मया तुल्यः हरिभक्तश्च बुद्धिमान्।
विद्यावान् पुण्यवान् शान्तो दान्तश्च प्राणवल्लभ’।।(तत्रैव 10.24)
एवं वरदानक्रमे धर्मेण धर्मिष्ठत्वं सर्वज्ञत्वं च, लक्ष्म्या श्रीत्वं शान्ता-कान्ता- मनोहरायाः रमासदृश्याः भार्यायाः पतित्वं च, सरस्वत्या आत्मवत् कवित्वं धराणा शक्तिः, स्मृतिः, विवेचना शक्तिश्च दत्ता।एवमेव; सावित्र्या, हिमालयेन, मेनकया, वसुन्धरया, पार्वत्या च वरप्रदानं कृतम्।
यदा गणेशस्य शिरः छिन्नम्, हरिणा गजशिरः आरोपितम्, तदा प्रथमं विष्णुना एव उपहारैः पूजितः सः।तस्य आशिषा एव सः अग्रपूज्यश्च।तद्यथा-
‘अथ विष्णुः शुभे काले देवैश्च मुनिभिः सह।
पूजयामास तं बालम् उपहारैः अनुत्तमैः।।
सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम।
सर्वपूज्यश्च योगीन्द्रो भव वत्सेत्युवाच तम्’।।(ब्रह्मवैवर्ते, गणपति-खण्डे 12.1-2)
अनन्तरं हरिणा तस्मै वनमालां ब्रह्मज्ञानं च प्रदाय आत्मत्वं चकार।पश्चात् धर्मेण सिद्धासनं दत्तम्, ब्रह्मणा कमण्डलुः दत्तः, शङ्करेण योगपट्टेन सह तत्त्वज्ञानं दत्तम्।ततः परं इन्द्रः रत्नसिंहारनम्, सूर्यः मणिकुण्डले, चन्द्रः माणिक्य-मालाम्, कुबेरः किरीटम्, अग्निः वस्त्रम्, वरुणः रत्नच्छत्रम्, वायुः रत्नमयम् अङ्गुलीयकं च दत्तवन्तः।एवमेव; लक्ष्मी- सावित्री- भारत्यादिभिः देवताभिः, मुनिभिः, पर्वतैः, गन्धर्वैः किन्नरैः, यक्षैः, मनुभिः, मानवैश्च यौतुकानि दत्तानि।वाहनरूपेण वसुन्धरया एव गणेश्वराय मूषकः दत्तः- ‘वसुन्धरा ददौ तस्मै वाहनाय च मूषकम्’।(तत्रैव12.12)
गणेशस्य कथा विस्तीर्णा।पुराणेषु तन्त्रेषु च तदुपासनायाः नाना विधयः।तस्य दर्शनं पूजनं कीर्तनं स्मरणं च सुख-सिद्धिदम्।गणेशः मुख्यतः विघ्न-विनाशकः देवः।सोsपि भोग-मोक्षप्रदः।यथा श्रीहरेः अनेके अवताराः कथिताः, तथैव गणनाथस्य अपि।मुद्गल-पुराणस्य अनुसारेण अस्य अष्टौ अवताराः।तेषु वक्रतुण्डावतारः, एकदन्तावतारः, महोदरावतारः, गजाननावतारः, लम्बोदरावतारः, विकटावतारः, विघ्नराजावतारः, धूम्रवर्णावतारः च।अस्माकम् उन्नत्याम् ज्ञानोत्कर्षे, तत्त्वदर्शने च बाधकाः अस्माकम् एव शरीरस्थाः महाशत्रवः।तेषु मत्सरः, मदः, मोहः, लोभः, क्रोधः, कामः, ममता, अभिमानं च।एते असुराः मताः।अतः एतेषां संहाराय एते अष्ट अवताराः कथिताः।
बहुषु ध्यानमन्त्रेषु स्तुतिषु च तस्य रूपाणि उद्घाटितानि।क्वचित् सत्त्वात्मकः श्वेतः, क्वचित् रजोमयः रक्तः, तु क्वचित् तमसावृतः कृष्णः वर्णः निर्दिष्टः।परन्तु; तस्य रक्तदेहस्य वर्णनम् अधिकम्।गणपत्युपनिषदि इत्थं रूपम् उद्धृतम्-
‘एकदन्तं चतुर्हस्तं पाशम् अङ्कुश- धारिणम्।
अभयं वरदं हस्तैः बिभ्राणं मूषकध्वजम्।।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्’।।
अस्तु; गणेशः अस्माकं संस्कृत्यां ऊँकार-स्वरूपो मतः हि वर्णेषु पञ्चाशत् सङ्ख्येषु गकार-रूपोsपि।कैश्चित् सः वैदिकः देवः न मन्यते।यः न मनुते, सः न मनुताम्, परन्तु अस्मिन् संस्कृत्यां देवो दानाद्वा द्योतनाद्वा दीपनाद्वा (निरुक्त-7.15) इति देवमान्यता तु कथं न सः देवः? यदि देवः तु दिव्योsपि सः।अनेन गणोशोsपि परमेश्वरः।अनेन गणेशाराधनेन धर्मार्थ- काम-मोक्षोपलब्धिः भवति एव न संशयस्य स्थानम् इति।* (मम अयम् आलेखः मदीये वैखरी इत्याख्ये प्रकाशितः।)
हमारे खबरों को शेयर करना न भूलें| हमारे यूटूब चैनल से अवश्य जुड़ें https://www.youtube.com/divyarashminews #Divya Rashmi News, #दिव्य रश्मि न्यूज़ https://www.facebook.com/divyarashmimag

एक टिप्पणी भेजें

0 टिप्पणियाँ