वन्दे मातरम्

वन्दे मातरम्

मार्कण्डेय शारदेयः 
भारतीये स्वाधीनता-सङ्ग्रामे देशस्य समस्तस्य वर्गस्य अपूर्वं सदैव स्मरणीयं च योगदानम्। राजवर्गाणां राजनेतृणां सैनिकानां शिक्षकाणां वाक्कीलानां छात्राणां व्यवसायिनां कृषकाणां श्रमिकाणां स्त्री-पुरुषाणां च स्तुत्यः प्रयासः लोकैः श्रूयते इतिहासस्य पृष्ठेषु दृश्यते च।प्रायेण एतादृशाः देशभक्ताः आसन्, येषाम् उल्लेखः न प्राप्यते।अतः रामधारी सिंह ‘दिनकरः’ तान् निःस्वार्थान् बलिदानिनः प्रति एव कथयति-
‘जला अस्थियाँ बारी-बारी
छिटकाई जिनने चिंगारी,
जो चढ़ गये पुण्यवेदी पर
लिये बिना गर्दन का मोल।
कलम, आज उनकी जय बोल’।
अस्तु; पत्रकाराणां साहित्यकाराणां च अपि कृत्यं नाल्पम् तस्मिन्।तेषु अपि गीतकाराणां स्थानं सर्वोपरि।कारणं यत् गीतं सहजग्राह्यम् अतिहृद्यं प्रेरणाप्रदं च भवति।
स्वातन्त्र्यस्य आन्दोलने देशभक्ति-सिद्धानां गीतानां कवितानां बहुलता।प्रायेण सर्वासु भाषासु विभाषासु च रचितानि गीतानि लोकानां कण्ठहाराणि इव आसन्।तच्छ्रुत्वा लोकानां मनः नृत्यन् आसीत्।यथा पतङ्गाः ज्वलत् दीपं विलोक्य तत् प्रति गच्छन्ति, तस्य ज्वालायां दग्धाः च भवन्ति, तथैव लोकाः कविभावं हृदि निधाय बलिवेदीं गच्छन्ति स्म।ते देशहितं सन्देशम् अधिगम्य तद्वत् आचरितुम् उद्यताः।अनेन कारणेन स्वतन्त्रता-सेनानिनः गीतं गायन्तः प्रयतमानाः।गीतात्मकतायाः कः प्रभावः स्वाधीनता-सङ्ग्रामिणाम् उपरि; एतदर्थं सुरेन्द्र तिवारी-द्वारा रचितस्य अंशः द्रष्टव्यः-
‘शोभित हुई ज्यों सिंहिनी वीरांगना तारा वहीं।
जिस ओर वह घूमी बहाई रक्त की धारा वहीं’।।
श्याम नारायण पाण्डेयः ‘हल्दीघाटी’ इति काव्ये कथयति-
‘निकल रही है जिसकी समाधि से स्वतन्त्रता की आगी।
यहीं कहीं पर छिपा हुआ है वह स्वतन्त्र वैरागी’।।
अनेनैव प्रकारेण ‘एक भारतीय आत्मा’ इति छद्मनामधारी माखनलाल चतुर्वेदी ‘बलिवेदी’ इत्याख्ये कथयति-
‘गुरु गोविन्द तुम्हारे बच्चे अब भी तन चुनवाते हैं।
पथ से विचलित हो न अहा गोली से मारे जाते हैं’।।
वस्तुतः एभिः अंशैः ज्ञायते यद् स्वाधीनता-सङ्ग्रमिणां कृते जीवनं कठिनम् आसीत्।परन्तु; राणाप्रताप, गुरु गोविन्द सिंह, लक्ष्मी बाई- प्रभृतिभिः यत् कृतम्, तदेव महाजन-पथः जातः।बलिदानिनां पूर्वजानां वृत्तम् आचरणीयं व्यावहारिकं ज्ञानं च भवति।अतः कवयः ऐतिहासिकानि चरितानि स्मारयित्वा गीतादि-माध्यमेन मार्गनिर्देशं कुर्वन्ति स्म।तेन विदेशीयां सत्ताम् उन्मूलयितुं कृतप्रतिज्ञाः ते सर्वस्व-समर्पणेन सहर्षं राष्ट्रहितं साधयितुं तत्पराः।
अस्तु; ‘वन्दे मातर्’ इति गीतम् अपि देशभक्त्याः प्रेरणास्रोतः।इदानीम् इदं ‘राष्ट्रगीतम्’ इति मतम्।गीतम् इदम् बंकिमचन्द चटर्जी-द्वारा रचिते ‘आनन्दमठ’ इति बंगीये उपन्यासे निबद्धम्।इदं प्रमुखेषु राष्ट्रगीतेषु प्रमुखम्।1882 तमे खृष्टाब्दे प्रकाशिते पुस्तके दृष्ट्वा लोकैः इदम् अङ्गीकृतम्।यद्यपि संस्कृत-बंग्ला-मिश्रितम् इदम्, तथापि देशस्य सर्वभागेषु प्रचलितम् अद्यापि।इयं मातृभूमेः वन्दना।अस्य गीतस्य प्रारम्भिकः अंशः इत्थम् अस्ति-
‘वन्दे मातरम्
सुजलां सुफलां
मलयज-शीतलाम्
शस्यश्यामलाम्
मातरम्’।
आशयोsयम्; अहं मातृरूपां भारतभूमिं वन्दे।इयम् उत्तमेन मधुरेण शीतलेन जलेन सुमधुरैः फलैः पूर्णा।अस्याः धूलिः चन्दनवत् सुगन्धा शीतला च।इयं शस्यैः पूर्णा, अनेन इयं जन्मभूमि-रूपा माता शस्यवत् श्यामा प्रतिभाति।
पश्चात् कविः कथयति-
‘शुभ्रज्योत्स्ना- पुलकित-यामिनीम्
फुल्लकुसुमित- द्रुमदल-शोभिनीम्
सुहासिनीं सुमधुर-भाषिणीम्
सुखदां वरदां मातरम्’।।
अर्थात्; या शुक्लपक्षस्य चन्द्रस्य शुभ्रया चन्द्रिकया सुशोभिता इव।यस्याः पुलकावली, प्रफुल्लितैः पुष्पैः पादपवर्गैः च।यस्याः शोभा सुन्दरता वा, पुष्पविकासः।तेषां पुष्पाणाम् उत्फुल्लनम् एव यस्याः हासः।पक्षिणां कलरवः एव यस्याः श्लक्ष्णा वाणी।एतादृशीं स्वसन्ततीनां सुपोषणैः सुखदात्रीं वरदात्रीं च मातरं वन्दे।
अग्रे कविः कथयति-
‘कोटि-कोटि-कण्ठ- कल-कल-निनाद- कराले
कोटि-कोटि-भुजैः धृत-खरकरवाले
अबला केन मा एत बले।
बहुबलधारिणीम्
नमामि तारिणीम्
रिपुदल- वारिणीम्
मातरम्’।।
अर्थात्; हे मातः! कोटि-कोटि-सङ्ख्यकानां भारतीयानां कण्ठ-निःसृता वाणी एव तव वाणी।त्वं तेषां माध्यमेन हार्दं मृदुलं भयप्रदं परुषं च वैखरीं वितनोषि।कोटि-कोटिजनैः तव त्राणाय अस्यादीनि आयुधानि धृतानि।जनानां बाहवः एव तव बाहवः।अतः त्वं कदापि निरीहा अबला वा नासि।त्वं तु बहुबलवती प्रबला असि।त्वं तु शत्रूणां निहत्य सर्वेषां जनानां दुःखात् त्रायसे।
कविः सर्वशक्ति- समन्वितां दुर्गां मत्वा मातृभूमिं स्तुवन् कथयति-
‘तुमि विद्या तुमि धर्म
तुमि हृदि, तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तोमारई प्रतिमा गड़ी मन्दिरे-मन्दिरे’।।
आशयोsयम्; हे मातृभूमे! त्वं सर्वशक्ति- स्वरूपा आद्या शक्तिः दुर्गा असि।त्वमेव समस्ता विद्या, धर्मभावना, प्राणिनां विद्यमाना प्राणशक्तिः, भावना, संवेदना च असि।त्वयि अपारशक्तिः अस्ति।मातः! मम हृदये तव एव प्रतिमा सदा विराजते।अर्चारूपेण त्वं मन्दिरे मन्दिरे दुर्गा नाम्ना पूज्यसे।
सर्वत्र आश्विनस्य नवरात्रे दुर्गोत्सवः आयोज्यते, विशेषेण बङ्गेषु।तस्मिन् उत्सवे मण्डपेषु पञ्च प्रतिमाः प्रायः दृश्यन्ते, यासु मध्ये दुर्गा, दुर्गायाः दक्षिणे लक्ष्मीः, लक्ष्म्याः दक्षिणे गणेशः। एवमेव, दुर्गायाः वामे सरस्वती, सरस्वत्याः वामे कार्तिकेयः च।न जाने कस्मिन् शास्त्रे एतादृशः उल्लेखः विद्यते।मम मते बङ्गीयानां राष्ट्रहितैषिणां विदुषाम्, अथवा बंकिमचन्द चटर्जी महोदयस्य इयं राष्ट्रीया कल्पना।आनन्दमठे भवानन्दः महेन्द्रं मठे पूर्वं नग्नां कालीमूर्तिं दर्शयति।तदनुसारेण सा पारतन्त्र्येण दोहनेन, शोषणेन च भारतभूमेः दीनतायाः प्रतिकृतिः। अनन्तरं दुर्गा-पञ्चायतनं दर्शयति।तन्मते- ‘’नाना प्रहरण-धारिणी, शत्रुविमर्दिनी, वीरेन्द्रपृष्ठ-विहारिणी, दक्षिणे लक्ष्मीः भाग्यरूपिणी, वामे विद्या-विज्ञानानन्द-दायिनी, सहैव शक्त्याः आधार कार्तिकेयः, कार्यसिद्धि-रूपी गणेशः...’’।अस्यैव अभिव्यक्तिः अधोलिखिते गीतांशे दृश्यते-
‘त्वम् हि दुर्गा दशप्रहरण- धारिणी
कमला कमलदल- विहारिणी
वाणी विद्या-दायिनी,
नमामि त्वाम्
नमामि कमलाम्
अमलाम् अतुलाम्
सुजलां सुफलाम्
मातरम्’।।
स्तुत्याः अन्त्ये रूपे कविः पुनः मातृभूमिं वन्दमानः कथयति-
‘वन्दे मातरम्
श्यामलां सरलाम्
सुस्मितां भूषिताम्
धरणीं भरणीम्
मातरम्’।।
अर्थात्; हे मातः धरणि! त्वं श्यामा दुर्गा भूत्वा तु शत्रूणां संहरणं करोषि एव, किन्तु मातृभावनया सरला, स्निग्धा अपि असि।विपत्तौ अपि तव मृदुलं हास्यम् अस्मान् धैर्यस्य साहसस्य प्रेरणां ददाति।त्वं सर्वेषां धारिणी सर्वंसहा असि, अनेन धरणीति कथ्यसे।त्वं स्तन्यवज्जलेन अन्नपूर्णावत् खाद्यपदार्थैः पुष्यसि, अतः भरणी-पोषणी अपि असि।त्वाम् अहं वन्दे।गीतम् इदं मातृभूमिं प्रति मातृभावं जागरयति, प्रत्येकं भारतीयं राष्ट्ररक्षणं प्रति दृढीकरोति च।
हमारे खबरों को शेयर करना न भूलें| हमारे यूटूब चैनल से अवश्य जुड़ें https://www.youtube.com/divyarashminews https://www.facebook.com/divyarashmimag

एक टिप्पणी भेजें

0 टिप्पणियाँ