Advertisment1

यह एक धर्मिक और राष्ट्रवादी पत्रिका है जो पाठको के आपसी सहयोग के द्वारा प्रकाशित किया जाता है अपना सहयोग हमारे इस खाते में जमा करने का कष्ट करें | आप का छोटा सहयोग भी हमारे लिए लाखों के बराबर होगा |

अद्य मम जन्मदिने ये सर्वे जनाः

अद्य मम जन्मदिने ये सर्वे जनाः शुभाशयान् प्रेषितवन्तः,तेभ्यः सर्वेभ्यः अहं यथायोग्यं प्रणमाशीषं समर्पयामि।

एतैः सर्वैः जनवृन्दैः प्रदत्तानां शुभकामनानां
काव्यरूपेण धन्यवादं समर्पयामि।🙏🙏

*जन्मदिन-प्रणमाशीष-श्लोकः*
रचनाकार: --------- 
       डाॅ. रविशंकरमिश्रः “राकेशः”
""""""""""""""""""""""""""""""""""""""""""""""
अद्य मे जन्मदिवसो न केवलं हि केनचित्।
आशीर्वादोत्सवो ह्येष स्नेहभावसमन्वितः॥

ये मां शुभाशयैः सार्धं स्मरन्ति हृदि निर्मलैः।
तेषां पादेषु नित्यं मे प्रणतिः स्यात् ससम्मता॥

शब्दा एव न ते केवलं वरदा भवनि क्षणात्।
जीवनस्य पथे नित्यं दीपवर्तिं प्रज्वालयन्॥

मित्राणां स्नेहवृष्टिश्च गुरूणां करुणाकृपा।
एतत्सर्वं समाश्रित्य कृतज्ञोऽहं सदा भवेत्॥

नायं केवलजन्मोत्सवो दायित्वस्य सूचनम्।
भवत्कृपाप्रसादेन स्थितोऽहं यदिदं जगत्॥

सर्वेभ्यः शुभकामुक्यः यथायोग्यं नमो मम।
प्रणमाशीषरूपेण हृदयं मे समर्पितम्॥
🙏
— कृतज्ञहृदयेन
डाॅ. रविशंकरमिश्रः “राकेशः”
हमारे खबरों को शेयर करना न भूलें| हमारे यूटूब चैनल से अवश्य जुड़ें https://www.youtube.com/divyarashminews #Divya Rashmi News, #दिव्य रश्मि न्यूज़ https://www.facebook.com/divyarashmimag

एक टिप्पणी भेजें

0 टिप्पणियाँ