संस्कृत-दिवसः- मार्कण्डेय शारदेयः 

कथितम्- ‘भाषासु मुख्या मधुरा दिव्या गीर्वाण-भारती’।अर्थात्; संस्कृताख्या भाषा सर्वासां भाषाणां मुख्या, प्रधाना, मधुरा, दिव्यगुणैः युता च विद्यते।अनेकासां जननी अपि इयम्।अनेन इयं सुरभारती, देवभाषा, गीर्वाण-भारती चेति कथ्यते।कथं मुख्या? तु; अस्याः प्रायेण खर्वद्वयानां शब्दानां विशालतमः अद्वितीयः च भाण्डागारः सर्वाधिकः समृद्धः।अस्याः लिपयः यथा उच्चार्यन्ते, तथैव लिख्यन्ते, यथा ध्वनिः तथा लिपिः।लिपिसंख्या अपि पर्याप्ता।इयं पञ्चसहस्र-वर्षेभ्यः अपि प्राचीना, अद्यापि समीचीना च।अस्यां ज्ञान-विज्ञानयोः अपरिमिताः निधयश्च सन्ति।अस्याः व्याकरणम्, साहित्यम्, शब्दकोशाः, वेदाः, उपवेदाः, वेदाङ्गानि, ब्राह्मणानि, आरण्यकानि, उपनिषदः, स्मृतयः, पुराणानि, रामायण-महाभारत- सदृशानि उपजीव्यानि काव्यानि, कालिदासादीनां ललितानि काव्यानि, काव्यशास्त्राणि, धर्मशास्त्राणि, अर्थशास्त्राणि, कामशास्त्राणि, दर्शन-शास्त्राणि, नीतिशास्त्राणि, तन्त्रशास्त्राणि, पाकशास्त्राणि च सम्पन्नानि।किमधिकम्; भारतीयानां गौरवमयी संस्कृता जीवन-पद्धतिः अपि संस्कृते एव विद्यते।धार्मिके, सांस्कृतिके आयोजने अद्यापि अस्याः प्रभावः दृश्यते।एताम् अनुसृत्य अधुनापि नाल्पं परम्परायाः पालनं क्रियते।कारणं यत् संस्कृते अस्माकं संस्कृतिः।अस्माकं सर्वे संस्काराः, व्रतोत्सवाः सुरभारत्यां लिखितान् धार्मिकान् शासनान् अनुशासनान् च अधिगम्य प्रसन्नाः भवामः।
मन्ये इदानीं संस्कृत भाषा उपेक्षिता।आधुनिकायां शिक्षापद्धत्यां इयं तिरस्कृता इव।साम्प्रतं पाश्चात्यरागे रञ्जिताः शासनाधिकारिणः जनाश्च।इंगलिश-माध्यमेन पठनस्य प्रचलनं दिनानुदिनं वृद्धिम् उपैति।अनेन इंगलिश स्कूलानां नगरे नगरे ग्रामे ग्रामे च स्थापनं दृश्यते। संस्कृत-विद्यालयात् विश्वविद्यालयात् च दूरंगताः विद्यार्थिनः।को हेतुः? तु; संस्कृत-माध्यमेन नवीनतमायाः जीविकाश्रयिण्याः शिक्षायाः अभावः।
श्रूयते स्वतन्त्रता-प्राप्तौ यदा एकायाः राजभाषायाः कृते आवश्यकता जाता, तदा देशस्य सर्वैः भूभाग-वासिभिः संस्कृतम् एव सर्वोपयुक्तं मतम्।किन्तु, मतदाने केवलम् एकेन एव मतेन हिन्दी विजिता, संस्कृतं च पराजिततम्।यदि संस्कृतं राजभाषायाः पदम् अध्यगमिष्यत् तु अस्माकं देशे अद्यापि यः भाषाविवादः दृश्यते, सः न अभविष्यत्।आशयोsयं यत् तमिल-तेलगु-मलयालम- बङ्ग-कलिङ्गादीनां भाषिणां स्वीकृतिः संस्कृतं प्रति।परन्तु; हिन्दीभाषिणां जनसङ्ख्यायाः आधिक्यात् सर्वसंयोजिका भाषा इयं न राजभाषायाः गौरवम् अलङ्कृतवती। किन्तु; जित्वापि हिन्दी नाम्नैव राजभाषा अद्यापि।आङ्लमुग्धैः आङ्लाश्रयिभिः देशीयैः विद्वद्भिः तु हिन्दी दलिता इव, देवभाषायाः च मारणाय सततं प्रयासः कृतः।परन्तु; इयं मृत्युञ्जया।न कोsपि मारयितुं समर्थः, नेयं मरिष्यति च।कारणं यत् अस्माकं संस्कारस्य इयं भाषा।सनातनिनां गृहे गृहे निर्विशेष-ब्रह्मवत् अदृश्यापि समयानुरूपं सविशेषा भवितुम् अर्हति। मन्ये; वैदिशिकानां विदुषां प्रेरणया भारतं पुनः इमाम् अङ्गीकरिष्यति।पुनः इयं भारती बीजतः वृक्षत्वम् अधिगमिष्यति।
अस्तु; इदानीं मातृदिवसः, पितृदिवसः, शिक्षकदिवसः इति एतादृशानां दिवसानां प्रचलनम्। एतत्पङ्क्तौ संस्कृत-दिवसोsपि।यथा 1949 तमस्य खृष्टीयवर्षस्य सितम्बर मासस्य 14 दिनाङ्के संविधान-सभया केन्द्रीयस्य सर्वकारस्य आधिकारिकी भाषा हिन्दी घोषिता, तद्वत् 1969 तमे खृष्टीये वर्षे भारत सर्वकारस्य शिक्षा मन्त्रालयेन संस्कृताय अपि एकः दिवसः घोषितः।हिन्द्याः कृते 14 सितम्बरे घोषणा जाता, तेन प्रति 14 सितम्बरं हिन्दीदिवसः आयोज्यते।परन्तु; भारतस्य सांस्कृतिक्याः अस्याः संस्कृत भाषायाः कृते आङ्ग्ल-दिनाङ्के दिवसस्य निर्धारणं नोचितं मतम्।तेन वेदप्राप्तेः पवित्रायाम् उपाकरणस्य च तिथौ संस्कृत्यानुरूपं श्रावण-पूर्णिमायां दिवसः निश्चितः।
कथं वेदप्राप्तेः दिवसः? तु; पक्षेsस्मिन् मान्यता यत् श्रावणमासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ पाताल-वासिभ्यां मधु-कैटभाभ्यां वेदाः हृताः।श्रीहरिणा तौ हत्वा वेदान् च आहृत्य पुनः ब्रह्मणे ददौ।श्रीविष्णुना श्रावणस्य पूर्णिमायां पूर्वाह्णि इदं प्रदानं कृतम्।अनेन इयं तिथिः पुनीता। कथितञ्च-
‘चतुर्दश्यां समुत्पन्नौ असुरौ मधु-कैटभौ।
वेदान् स्वीकुर्वतः पद्मयोनेः तौ जघ्नतुः श्रुतीः।।
हत्वा तौ असुरौ देवः पातालतल-वासिनौ।
आहृत्य ताः श्रुतीः तस्मै ददौ लोकगुरुः स्वयम्।।
सम्प्राप्तवान् श्रुतीः ब्रह्मा पर्वण्यौदिके पुनः।
अतो भूतयुते तस्मिन् नोपाकरणमिष्यते’।।
अयम् उपाकर्मणः, उपाकरणस्य पवित्रकालः।अस्याभिप्रायः संस्कार-पूर्वकं श्रुतिग्रहणम्।अनेन कारणेन सूर्योदय- व्यापिन्यां श्रावण- पूर्णिमायां तिथौ अयं दिवसः प्रतिवर्षम् आयोज्यते।
वस्तुतः नायं एकः दिवसः संस्कृतस्य कृते अनुष्ठानात्मकः, अपितु तद्धिताय प्रेरकरूपेण उत्साह-वर्द्धनाय आगत्य अस्माकं कर्तव्यं स्मारियतुम् आगच्छति।अयं दिवसः सर्वकारान् अपि उद्बोधयति यत् एतद्विकासाय समुचितः प्रयत्नः कर्तव्यः।कारणं यत् जनानां शासनस्य च उपेक्षया एव इयं सर्वसमृद्धा भाषा जनसम्पर्कात् दूरंगता।स्वतन्त्रे भारतेsपि अस्यै समुचितं स्थानं न मिलितम्।एतद्विषये न अस्याः कोsपि दोषः, अपितु आङ्ग्लीयैः संस्कारैः संस्कृतानाम् अधिकारिणाम् पाश्चात्य-संस्कृत्याः प्रभाविणां लोकानां दुर्वृत्तिः एव कारणम्।
यस्यां भाषायां भारतस्य समस्ताः ज्ञान-विज्ञान- निधयः, यस्याः सुसंस्कृतेन परिष्कृतेन रूपेण सर्वे भाषाविदः मुग्धाः, यस्याः लेखन-दृष्ट्या सर्वोत्तमा वैज्ञानिकी भाषेति विश्वघोषणा; सा कथं स्वस्थाने एव उपेक्षिता? एतस्मिन् न किमपि कारणं द्रष्टुं शक्नुमः।केवलम् इदम् एव बुध्यते यत् अन्धानुकरणम्, प्राप्ते स्वातन्त्र्येsपि वैदेशिक्याः मानसिकतायाः संस्कृत्याः च मदः वा।
अमेरिका देशस्य राष्ट्रीय वैमानिक्या सह अन्तरिक्ष प्रबन्धनम् (नासा) इत्यनेन स्वीकृतं यत् संस्कृते 102 अर्बुद-संख्यकानां शब्दानां निर्माणस्य क्षमता।अस्याः लिपिः अतिवैज्ञानिकी गणितस्य सूत्रसमा अपि अस्ति।वैज्ञानिकानाम् अनुसन्धानानां कम्प्युटरस्य च कृते इयं सर्वथा उपयुक्ता भाषा।अतः अस्यां विश्वभाषायाः योग्यता दृश्यते।कथ्यते यत् नासा-प्रमुख रोबर्ट लाइटफुट जुनियर महोदयः स्वयं संस्कृत-सम्भाषणे प्रयतमानः।तेन आश्चर्यं व्यक्तं यत् भारतीयैः अस्याः महत्त्वम् अविज्ञाय त्यक्ता। दण्डी कथयति- ‘संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः’ (काव्यादर्शः 1.33)।आशयोsयं यत् इयं भाषा दिव्या, असामान्या, परिष्कृता निरुक्ता च।यदि इयम् एतादृशी तु कथं तिरस्करणीया? नेयं वृद्धा, नेयं मृता, नेयं प्रसवशक्ति-रहिता च।अतः जागृहि भारत! जागृहि। संस्कृतं रक्ष।संस्कृतिं रक्ष।पारतन्त्र्यं छिन्धि।स्वातन्त्र्यं विन्द।संस्कृतं रक्ष।संस्कृतिं च रक्ष।
हमारे खबरों को शेयर करना न भूलें| हमारे यूटूब चैनल से अवश्य जुड़ें https://www.youtube.com/divyarashminews https://www.facebook.com/divyarashmimag

एक टिप्पणी भेजें

0 टिप्पणियाँ