पितृपक्षस्य महत्त्वम्
मार्कण्डेय शारदेयः
अस्माकं धर्म एका जीवन-पद्धतिरेव।जीवनस्य संस्करणाय परिष्करणाय च प्राणिविज्ञान-विशेषज्ञैः अस्माकं पूर्वजैः ऋषि-महर्षिभिः सर्वेषां मानवानां कृते केचिन् नियमा निर्धारिताः,तेषु केचन सामान्याः केचन विशिष्टाश्च।सामान्येषु अहिंसा, सत्यवादिता, अचौर्यम्, इन्द्रिय-निग्रहश्च एते चत्वारः।आशयोsयं यद् एते सर्वेषां मनुष्याणां कृते अनिवार्या धर्माः। विशिष्टास्तु वर्णाश्रम-व्यवस्थया निर्धारिता विभक्ताश्च।उक्तञ्च भविष्य-पुराणे-
वर्णधर्म-स्मृतः त्वेक आश्रमाणाम् अतः परम्।
वर्णाश्रमस्तृतीयस्तु गौणो नैमित्तिकस्तथा।।
तर्हि को धर्म इति विषये मनोः कथनम्-
श्रुति-स्मृत्युदितं धर्ममनुतिष्ठन्निह मानवः।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्।।(मनुस्मृतिः2.9)
स्पष्टमिदं यद् अस्माकम् इयमेव अवधरणा यत् वेद-शास्त्र-प्रतिपादितं कर्म एव धर्मः।अनेनैव कर्मणा इहलोके अभ्युदयः परलोके च मोक्षाधिगमः।अनेनैव कारणेन धर्मस्य एका विशिष्टा परिभाषा ‘यतोsभ्युदय-निःश्रेयस-सिद्धिः स धर्मः’इति।एतद्भिन्नानि अन्यशास्त्र-निर्दिष्टानि कर्माणि धर्माभास इति नाम्ना ज्ञेयानि।एतादृशी मान्यता देवीगीतायाः अपि।तद् यथा-
श्रुति-स्मृतिभ्याम् उदितं यत् स धर्मः प्रकीर्तितः।
अन्यशास्त्रेषु यः प्रोक्तो धर्माभास स उच्यते।।
नित्य-नैमित्तिक-काम्याश्चेति याग-दान-होमात्मके, शुक्ल-कृष्ण-शुक्लकृष्णात्मके वा धर्मरूपिणः कर्मणश्च त्रयो भेदाः।शुक्लः, शुभः, सात्त्विकश्चेति उत्तमरीत्या मनो-वाक्कर्मभिः सम्पादितो धर्मः।अतः कथितम्-
नियतं संग-रहितम् अराग-द्वेषतः कृतम्।
अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते।।
वस्तुतः शास्त्र-निर्दिष्टाः ब्रह्मयज्ञः, देवयज्ञः, पितृयज्ञः, भूतयज्ञः, नृयज्ञश्चेति पंचयज्ञा एव अस्माकं सर्वेषां धार्मिक-कृत्यानां मूलाः।एते नित्यधर्माः।एतेषाम् एव विस्तारः नैमित्तिक-काम्य-रूपेण।पितृयज्ञस्य नैमित्तिकरूपेण प्रायेण षण्णवतिषु स्थानेषु निर्देशो दृश्यते, तेषु पितृपक्षोsपि एकं स्थानम्।अस्य अपरं नाम महालयोsपि, यस्यार्थः पितृणाम् उत्सवाश्रय इति गृहीतः।अयं पितृपक्षः आश्विनमासस्य कृष्णपक्षो भवति। अस्मिन् समये प्रायेण कन्याराशिगतः सूर्यो भवति तथा च आषाढात् पंचमे पक्षे अस्य कालो निर्धारितः।अस्मिन् समये पितरः स्ववंशजैः अन्नं पानं च अपेक्षन्ते।अस्मिन् पक्षे अशक्ये एकस्मिन्नेव दिनेsपि कृतेन श्राद्धेन कर्तुः पितरः वर्षं यावत् तृप्ता भवन्ति।कथितं च-
‘यो वै श्राद्धं नरः कुर्यात् एकस्मिन्नेव वासरे।
तस्य संवत्सरं यावत् संतृप्ताः पितरो ध्रुवम्’।।
अस्मिन् पक्षे प्रतिपत्तिथितः अमावस्यां यावत् नित्यपार्वणस्य विधानम्- ‘अश्वयुक्कृष्णपक्षे तु श्राद्धं देयं दिने दिने’ इति।किन्तु अशक्ते पंचमीतः अमां यावत् अथवा दशमीतः अमां यावत्, अथवा अत्यन्ताशक्ये एकस्मिन्नेव दिने पितृमरण-तिथौ अमायां वा अवश्यमेव पितृणां तोषकरं श्राद्धं विधेयम्।अकरणे दोषे कथितम्-
‘सूर्ये कन्यांगते श्राद्धं यो न कुर्यात् गृहाश्रमी।
धनं पुत्राः कुतः तस्य पितुनिश्वास-पीडनात्’।।
अर्थात् पितृपक्षे यदि पितृणाम् श्राद्धं न क्रियते तु ते अतिदुःखिता भवन्ति तेन च अनेका हानय जायन्ते।तासु च सन्तान-सम्बन्धिनी-हानिः धनसम्बन्धिनी-हानिश्च विशिष्टे।
वस्तुतः अस्माकम् उत्पत्ति-विकासयोः पितृकुलस्य मातृकुलस्य च योग एव मुख्यं कारणम्।पितृकुलस्य सपत्नीकाः पितृपितामहप्रपितामहाः,मातृकुलस्य च मातामह-प्रमातामह-वृद्धप्रमातामहश्चैते प्रमुखाः पितरः।उभयोरेते क्रमेण वसु-रुद्रादित्य-संज्ञकाः।दिवंगतानामपि एतेषाम् अस्मासु महती कृपा भवति । एतेषामेव माध्यमेन परस्पर-सम्बद्धतया अस्मासु कृपालवः।अतः मरीच्यादिपितरः पितृपत्नयः पितृपुत्राः पितृगणाश्च सर्वे पुत्रवत् स्निह्यन्ति अस्मान् ।देववत् पितरोsपि दिव्याः दयार्द्राश्च।अत एव एतेषाम् अनुकम्पया आयुःप्रज्ञा-धन-विद्या-सन्तत्यादि-लाभो भवति।कथितं च-
अरोगः प्रकृतिस्थश्च चिरायुः पुत्र-पौत्रवान्।
अर्थवानर्थकामी यः श्राद्धकामो भवेदिह।।
परत्र च परां पुष्टिं लोकश्च विविधान् शुभान्।
श्राद्धकृत् समवाप्नोति यशश्च च विपुलं नरः।।
आयुः प्रज्ञां धनं विद्यां स्वर्ग-मोक्ष-सुखानि च।
प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः।।
आयुः पुत्रान् यशः कीर्तिं तुष्टिं पुष्टिं बलं श्रियः।
पशुं सुखं धनं धान्यं प्राप्नुयात् पितृपूजनात्।।
अतः पितृपक्षे अवश्यं श्राद्धं कर्तव्यम्।किन्तु स्मृतिसारे कथितं यत् विवाह-यज्ञोपवीत-चूडाकरणेषु आभ्युदयिकं श्राद्धं क्रियते तेनैव कारणेन प्रायेण विवाहाद्यनन्तरं वर्षं यावत् महालये निषिद्धम्। कथितं च-
विवाह-व्रत-चूडासु वर्षमर्धं तदर्धकम्।
पिण्डदानं मृदा-स्नानं न कुर्यात्तिल-तर्पणम्।।इति।
दिव्य रश्मि केवल समाचार पोर्टल ही नहीं समाज का दर्पण है |www.divyarashmi.com
0 टिप्पणियाँ
दिव्य रश्मि की खबरों को प्राप्त करने के लिए हमारे खबरों को लाइक ओर पोर्टल को सब्सक्राइब करना ना भूले| दिव्य रश्मि समाचार यूट्यूब पर हमारे चैनल Divya Rashmi News को लाईक करें |
खबरों के लिए एवं जुड़ने के लिए सम्पर्क करें contact@divyarashmi.com